Ad Code

ALERT:

6/recent/ticker-posts

X-12 (Ans)

द्वादशः पाठः

अन्योक्तयः



प्रश्न 1. एकापदेन उपर लिखत-

(क) कस्य शोभा एकेन राजहंसेन भवति?
उत्तरम्-         सरसः

(ख) सरसः तीरे के वसन्ति?
उत्तरम्-         बकसहस्रम्

(ग) कः पिपासितः म्रियते?
उत्तरम्-         चातकः

(घ) के रसालमुकुलानि समाश्रयन्ते?
उत्तरम्-         भृङ्गा

(ङ) अम्भोदाः कुत्र सन्ति?
उत्तरम्-         गगने

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) सरसः शोभा केन भवति?
उत्तरम्-                   सरसः शोभा एकेन राजहंसेन भवति।

(ख) चातकः किमर्थं मानी कथ्यते?
उत्तरम्-                   चातकः धरायाः जल न पीत्वा पुरन्दरं वर्षाजलं माचते अन्यथा पिपासितः एव म्रियते अत: मानी कथ्यते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तरम्-                   सरः त्वयि सङ्कोचं अञ्चतिसति मीनः दीनां गतिं प्राप्नोति।

(घ) कानि पूरयित्वा जलद: रिक्तः भवति?
उत्तरम्-         नानानदीनदशतानि च पूरयित्वा जलद: रिक्तः भवति।

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तरम्-         वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

 

प्रश्न 3. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मालाकारः तोयैः तरोः पुष्टि करोति।
उत्तरम्-         मालाकार: कैः तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तरम्-         भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तरम्-         के अम्बरपथम् आपेदिरे?

(घ) जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तरम्-         क: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(ङ) चातकः वने वसति।
उत्तरम्-         चातकः कुत्र/कस्मिन् वसति?

 

प्रश्न 4. अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

(क) तोयैरल्पैरपि __________ वारिदेन।

उत्तरम्-
अर्थात् हे मालाकार। त्वम् भीषणतया ग्रीष्ममतौं भानौ तपति सति अल्पेन जलेन या सेवा भवता अस्य वृक्षस्य पोषणार्थं कृता किं सा एव सेवा वर्षाकाले परितः धारासु प्रवाहतैः जलैः वारिदेन अपि कर्तुं सक्षमेन भूमते? अर्थात् मानवजीवन केवल सुखैरेव प्रवर्धते तदर्थं तु दुःखमपि तथैव अनिवार्य वर्तते यथा सुखम् अस्ति। सुख दु:खम् तु मानवजीवनस्य द्वौ स्कन्धौ इव वर्तते।

 

(ख) रे रे चातक __________ दीनं वचः।

उत्तरम्-
अस्य भावोऽस्ति यत् हे मित्र चातक! सावधानं भूत्वा मम वासि श्रुत्वा अवधीयताम् पतः गगने अनेके अनेके बदलाः सन्ति परन्तु तेषु सर्वे स्व वर्षाभिः धरां न तर्पयन्ति अपितु केचिदेव वर्षस्ति केचितु वृथा एव गर्जन्ति। अत: यं यं बद्दलं त्वं पश्यसि तस्य-तस्य (सर्वस्य) अग्रे स्वदीनं वचः मा ब्रूहि। एवमेव संसारेऽपि अनेक जनाः सन्ति तो सर्वे स्वमित्राणां साहाय्यं न कुर्वन्ति अतः सर्वेषाम् अग्रे स्वदुःखानि प्रकटानि न कुर्युः अनेन आत्मसम्माने समाप्यते जगति हास्यं च भवति।

 

प्रश्न 5. अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
(क) आपेदिरे ___________ कतमां गतिमभ्युपैति।
उत्तरम्-
पतङ्गाः परितः अम्बरपथम् अपोदिरे भृङ्गाः रसालमुकुलानि समात्रयन्ते। सर: त्वमि सङ्कोचम् अञ्चति हन्त दीनदीनः मीनः नु कतमा गतिम् अभ्युपैतु।।

 

(ख) आश्वास्य ___________ सैव तवोत्तमा श्रीः।।
उत्तरम्-
तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च (आश्वास्य) नानानदीनदर्शतानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।।

 

प्रश्न 6. उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

उत्तरम्-
(क) निपीतानि + अम्बूनि = निपीतान्यम्बूनि
(ख) कृत + उपकारः = कृतोपकारः
(ग) तपन + उष्णतप्तम् = तपनोष्णतप्तम्
(घ) तव + उत्तमा = तवोत्तमा
(ङ) न + एतादृशाः = नैतादृशाः

 

(ii) यथा- पिपासितः + अपि = पिपासितोऽपि
उत्तरम्-
(क) को + अपि = कोऽपि
(ख) रिक्तो + असि = रिक्तोऽसि
(ग) मीनः + अयम् = मीनोऽयम्
(घ) सर्वे + अपि = सर्वेऽपि

 

(iii) यथा- सरसः + भवेत् = सरसो भवेत्
उत्तरम्-
(क) खगः + मानी = खगोमानी
(ख) मीनः + नु = मीनो नु
(ग) पिपासितः + वा = पियासितो वा
(घ) पुरतः + मा = पुरतो मा

 

(iv) यथा- मुनिः + अपि = मुनिरपि
उत्तरम्-
(क) तोयैः + अल्पैः = तोयैरल्पैः
(ख) अल्पैः + अपि = अल्पैरपि
(ग) तरोः + अपि = तरोरपि
(घ) वृष्टिभिः + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति

 

प्रश्न 7. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
उत्तरम्-
(क) राजहंसः
(ख) भीमभानुः
(ग) अम्बरपन्थाः
(घ) उत्तमश्री
(ङ) सावधानमनसा

 

योग्यताविस्तारः


अन्योक्ति अर्थात् किसी की प्रशंसा अथवा निन्दा अप्रत्यक्ष रूप से अथवा किसी बहाने से करना जब किसी प्रतीक या माध्यम से किसी के गुण की पोप की सिया की जाती है, तब वह पाठकों के लिए अधिक ग्राहा होता है। प्रस्तुत पाठ में ऐसी ही सात अन्योक्तियों का संकलन है जिनमें राजहंस, कोकिल, मेघ, मालाकार, सरोवर तथा चातक के माध्यम से मानव को सद्वृत्तियों एवं सत्कर्मों के प्रति प्रवृत्त होने का संदेश दिया गया है।

 

पाठ-परिचयः


अन्येषां कृते या उक्तयः कथ्यन्ते ता उक्तयः अन्योक्तयः अत्र पाठे सङ्कलिता वर्तन्ते। अस्मिन् पाठे षष्ठश्लोकम् सप्तमश्लोकम् च अतिरिच्य ये श्लोकाः सन्ति ते पण्डितराजजगन्नाथस्य ‘भामिनीविलास’ इति गीतिकाव्यात् सङ्कलिताः सन्ति। षष्ठः श्लोकः महाकवि माघस्य ‘शिशुपालवधम्’ इति महाकाव्यात् गृहीतः अस्ति। सप्तमः श्लोकः महाकविभर्तृहरेः नीतिशतकात् उद्धृतः अस्ति।

 

कवि-परिचयः


पण्डितराजजगन्नाथः संस्कृतसाहित्यस्य मूर्धन्यः सरसश्च कविः आसीत्। सः शाहजहाँ नामकेन मुगलशासकेन स्वराजसभायां सम्मानितः। पण्डितराजजगन्नाथस्य त्रयोदश कृतयः प्राप्यन्ते।

1.     गङ्गालहरी

2.     अमृतलहरी

3.     सुधालहरी

4.     लक्ष्मीलहरी

5.     करुणालहरी

6.     आसफविलासः

7.     प्राणाभरणम्

8.     जगदाभरणम्

9.     यमुनावर्णनम्

10.    रसगङ्गाधरः

11.    भामिनीविलासः

12.    मनोरमाकुचमर्दनम्

13.    चित्रमीमांसाखण्डनम्।

 

एतेषु ग्रन्थेषु ‘भामिनीविलासः’ इति तस्य विविध पद्यानां सङ्कहः।

महाकविमाध: – महाकविमाघस्य एकमेव महाकाव्यं प्राप्यते “शिशुपालवधम्” इति।

भर्तहरि: – महाकविभहरेः त्रीणि शतकानि सन्ति, नीतिशतकम्, शृङ्गारशतम् वैराग्यशतकं च।

 

अधोवत्ता: विविधविषयकाः श्लोकाः अपि पठनीयाः स्मरणीयाश्च-
हंसः – हंसः श्वेतः बकः श्वेतः को भेदो वकहंसयोः।
नीरक्षीरविभागे तु हंसो हंसः बको बकः।।

एकमेव पर्याप्तम् – एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।
सहैव दशभिः पुत्रैः भारं वहति रासभी।।

पिक: – काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिक: पिकः।।

चातक वर्णनम् – यद्यपि सन्ति बहूनि सरांसि,
स्वादुशीतलसुरभिपयांसि।
चातकपोतस्तदपि च तानि,
त्यक्त्वा याचति जलदजलानि।।

 

 

---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ