Ad Code

ALERT:

6/recent/ticker-posts

X-11 (Ans)

एकादशः पाठः

प्राणेभ्योऽपि प्रियः सुह्रद्



प्रश्न 1.        एकपदेन उत्तरं लिखत-

(क) क: चन्दनदासं द्रष्टुम् इच्छति?
उत्तरम्-      चाणक्यः

(ख) चन्दनदासस्य वणिज्या कीदृशी आसीत्?
उत्तरम्-      मणिकारम्

(ग) किं दोषम् उत्पादयति?
उत्तरम्-      ततस्तत्प्रच्छादनम्

(घ) चाणक्यः कं द्रष्टुम् इच्छति?
उत्तरम्-      चन्दनदासम्

(ङ) कः शङ्कनीयः भवति?
उत्तरम्-      चन्दनदासम्

 

प्रश्न 2.        अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?

उत्तरम्- चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षतिः।
(ख) तृणानां केन सह विरोधः अस्ति?
उत्तरम्- तृणानाम् अग्निना सह विरोधः अस्ति।

(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
उत्तरम्- पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।

(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
उत्तरम्- प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।

(ङ) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
उत्तरम्- आर्यस्य (चाणक्यस्य) प्रसादेन चन्दनदासस्य वाणिज्या-अखण्डिता।


प्रश्न 3.        स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
उत्तरम्-      केन

(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
उत्तरम्-      कः

(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
उत्तरम्-      कस्य

(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तरम्-      के

(ङ) तृणानाम् अग्निना सह विरोधो भवति।
उत्तरम्-      केषाम्

 

प्रश्न 4.        यथानिर्देशमुत्तरत-

(क) ‘अखण्डिता मे वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरम्-      अखण्डिता

 

(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
उत्तरम्-      इदानीम्

 

(ग) ‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?
उत्तरम्-      चाणक्याय

 

(घ) ‘प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम्-      राजानः

 

(ङ) ‘तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपद किम्?
उत्तरम्-      समये

 

प्रश्न 5.        निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

(क) यथा- कः + अपि – कोऽपि
उत्तरम्-
(क) यथा- क: + अपि – कोऽपि
प्राणेभ्यः + अपि – प्राणेभ्योऽपि
सज्जः + अस्मि – सज्जोऽस्मि
आत्मनः + अधिकारसदृशम् – आत्मनोऽधिकारसदृशम्

 

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – शरच्चन्द्रः
कदाचित् + च – कदाचिच्च

 

प्रश्न 6.        कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

उत्तरम्-
(क) चन्दनदासेन
(ख) गुरवे
(ग) प्रसादेन
(घ) कलहेन
(ङ) सिंहात्
(च) कुक्कुरात्
(छ) आचार्यम्

 

प्रश्न 7.        अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

असत्यम्पश्चात्गुणःआदरःतदानीम्तत्र

उत्तरम्-
(क) आदरः
(ख) गुणः
(ग) पश्चात्
(घ) असत्यम्
(ङ) तदानीम्
(च) तत्र

 

प्रश्न 8.        उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
उत्तरम्-
(क) अहम् आचार्यम् उपसृत्य पठामि।
(ख) सः कक्षाम् प्रविश्य अवदत्।
(ग) बाल: मातरं द्रष्टुम् इच्छति।
(घ) इदानीम् त्वं कुतः आगच्छसि?
(ङ) सा अत्र आगृत्य वदति।

 

योग्यता-विस्तारः


यह नाट्यांश महाकवि विशाखदत्त द्वारा रचित ‘मुद्राराक्षसम्’ नामक नाटक के प्रथम अंक से उद्धृत किया गया है। नन्दवंश का विनाश करने के बाद उसके हितैषियों को खोज-खोजकर पकड़वाने के क्रम में चाणक्यअमात्य राक्षस एवं उसके कुटुम्बियों की जानकारी प्राप्त करने के लिए चन्दनदास से वार्तालाप करता हैकिन्तु चाणक्य को अमात्य राक्षस के विषय में कोई सुराग न देता हुआ चन्दनदास अपनी मित्रता पर दृढ़ रहता है। उसके मैत्री भाव से प्रसन्न होता हुआ भी चाणक्य जब उसे राजदण्ड का भय दिखाता हैतब चन्दनदास राजदण्ड भोगने के लिये भी सहर्ष प्रस्तुत हो जाता है। इस प्रकार अपने सुहृद् के लिए प्राणों का भी उत्सर्ग करने के लिये तत्पर चन्दनदास अपनी सुहृद्-निष्ठा का एक ज्वलन्त उदाहरण प्रस्तुत करता है।

 

कवि-परिचयः


मुद्राराक्षसम्’ इति नाम्नः नाटकस्य प्रणेता विशाखदत्तः आसीत्। सः राजवंशे उत्पन्नः आसीत्। तस्य पिता भास्करदत्तः महाराजस्य पदवीं प्राप्नोत्। विशाखदत्तः राजनीते: न्यायस्य ज्योतिषविषयस्य च विद्वान् आसीत्। वैदिकधर्मावलम्बी भूत्वाऽपि सः बौद्धधर्मस्य अपि आदरमकरोत्।

 

ग्रन्थ-परिचयः


मुद्राराक्षसम्’ एकम् ऐतिहासिकं नाटकम् अस्ति। दशाङ्कषु विरचिते अस्मिन्नाटके चाणक्यस्य राजनीतिककौशलस्य बुद्धिवैभवस्य राष्ट्रसञ्चालनार्थम् कूटनीतीनाम् निदर्शनमस्ति। अस्मिन्नाटके चाणक्यस्यामात्यराक्षसस्य च कूटनीत्योः संघर्षः।

 

भाव-विस्तारः


चाणक्य – चाणक्यः एकः विद्वान् ब्राह्मणः आसीत्। तस्य पितृप्रदत्तं नाम विष्णगप्तः आसीत्। अयमेव ‘कौटिल्य’ इति नाम्ना प्रसिद्धः। केषाञ्चित् विदुषाम् इदमपि मतमस्ति यत् राजनीतिशास्त्रे कुटिलनीतेः प्रतिष्ठापनाय तस्याः स्व-जीवने उपयोगाय च अयं ‘कौटिल्यः’ इत्यिपि कथ्यते।

 

चणकनामकस्य कस्यचित् आचार्यस्य पुत्रत्वात् ‘चाणक्यः’ इति नाम्ना स प्रसिद्धः जातः। नन्दाना राज्यकाल: शतवर्षाणि पर्यन्तम् आसीत्। तेषु अन्तिमेषु द्वादशवर्षेषु एतेन सुमाल्यादीनाम् अष्टनन्दानां संहारः कारितः तथा च चन्द्रगुप्तमौर्यः नृपत्वेन राजसिंहासने स्थापितः। अयमेकः महान् राजनीतिज्ञः आसीत्। एतेन भारतीयशासनव्यवस्थायाः प्रामाणिकतत्त्वानां वर्णनेन युक्तं “अर्थशास्त्रम्” इति अतिमहत्त्वपूर्ण: ग्रन्थ: रचितः।

चन्द्रगुप्तमौर्यः – चन्द्रगुप्तः महापद्मनन्दस्य मुरायाः च पुत्रः आसीत्। चाणक्यस्य मार्गदर्शने अनेन चतुर्विशतिवर्षपर्यन्तं राज्य कृतम्।

राक्षसः – नन्दराज्ञः स्वामिभक्तः चतुरः प्रधानामात्यः आसीत्।

चन्दनदासः – कुसुमपुरनाम्नि नगरे महामात्यस्य राक्षसस्य प्रियतमं पात्रं मित्रञ्च आसीत्। स मणिकारः श्रेष्ठी च आसीत्। अस्यैव गृहात् राक्षसः सपरिवार: नगरात् बहिरगच्छत्।

 

भाषिक-विस्तारः


1. पृथक् और विना शब्दों के योग में द्वितीया तृतीया और पंचमी तीनों विभक्तियों का प्रयोग-
यथा- जलं विना जीवनं न सम्भवति। – द्वितीया
जलेन विना जीवनं न सम्भवति। – तृतीया
जलात् विना जीवन न सम्भवति। – पंचमी
परिश्रमं पृथक् नास्ति सुखम्। – द्वितीया
परिश्रमेण पृथक् नास्ति सुखम्। – तृतीया
परिश्रमात् पृथक् नास्ति सुखम्। – पंचमी

 

2. अनीयर् प्रत्ययप्रयोगः
अत्यादरः – शङ्कनीयः
जन्तुशाला – दर्शनीया
याचकेभ्यः दानं – दानीयम्
वेदमन्त्राः – स्मरणीयाः
पुस्तकमेलापके पुस्तकानि क्रयणीयानि।
(क) अनीयर् प्रत्ययस्य प्रयोगः योग्यार्थे भवति।
(ख) अनीयर् प्रत्यये ‘अनीय’ इति अवशिष्यते।
(ग) अस्य रूपाणि त्रिषु लिङ्गषु चलन्ति।

यथा-
इनके रूप क्रमशः देववत्लतावत् तथा फलवत् चलेंगे।

 

---------- इति ----------

 

एक टिप्पणी भेजें

0 टिप्पणियाँ