Ad Code

ALERT:

6/recent/ticker-posts

WS-1 (IX)

 WORKSHEET-1


प्र.1 अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

अयोध्यायाः शासकः दशरथः आसीत्। तस्य चत्वारः पुत्राः आसन्। ज्येष्ठः पुत्रः श्रीरामः शस्त्रेषु शस्त्रविद्यायाम् च निपुणः आसीत्। तस्य भार्या सीता आसीत्। सा जनकस्य पुत्री आसीत्। दशरथस्य आदेशेन रामः चतुर्दश वर्षाणि वने अवसत्। यदा चतुर्दश वर्षाणाम् पश्चात् ते अयोध्याम् प्रत्यागच्छन् तदा अयोध्यायाः जनाः प्रसन्नाः अभवन्। जनाः स्वगृहान् अभूषयन्। गृहेषु दीपकाः अपि प्रज्वालिताः।

I) एकपदेन उत्तरत -

क) अयोध्यायाः शासकः कः आसीत्?

ख) शस्त्रेषु कः निपुणः आसीत्?

ग) जनकस्य पुत्री का आसीत्?

घ) कस्य आदेशेन श्रीरामः वने अगच्छत्?

 

II) पूर्णवाक्येन उत्तरत -

क) रामः वने किमर्थम् अगच्छत् ?

ख) जनाः स्वगृहान् कदा अभूषयन् ?

 

III) निर्देशानुसारम् उत्तरत-

क) ’अयोध्यायाः शासकः दशरथः आसीत्।’ अत्र क्रियापदं किम् अस्ति ?

(अ) आसीत्              (ब) शासकः             (स) दशरथः   (द) अयोध्यायाः

ख) धातुम् लिखत- ’’अभूषयन्।’’

(अ) अभू                  (ब) भूष्                  (स) भू           (द) आभूषण

 

प्र.2. अग्रजस्य विवाहार्थम् दिनत्रयस्य अवकाश हेतु प्रधानाचार्यम् प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं पुनः लिखत ।

 

सेवायाम्,

श्रीमान् प्रधानाचार्यमहोदयः

ओ. पी. जिंदल विद्यालयः

राजश्रीनगरम्।

 

विषयः - दिनत्रयस्य अवकाशार्थम्।

 

श्रीमन्!

 

सेवायाम् (1)............ निवेदनम् (2)............ यत् मम ज्येष्ठस्य (3)............ विवाहः (4).............. भविष्यति । (5).............. तु वाराणसीम् गमिष्यति। अतः (6)............ दिनत्रयस्य (7)............ प्रदाय (8)...........(9)..............

तिथिः 25.09.2018

भवदीया

(10)..............

 

मञ्जूषा

भ्रातुः, अस्ति, धन्यवादः, इदम्, परश्वः, मह्यम्,

अनुगृहणन्तु, वरयात्रा, अवकाशं, प्रियशिष्या

 

 

प्र.3. अधोलिखितप्रश्नानाम् उत्तराणि उचितं पदं चित्वा लिखत-

क) ’च’ वर्गस्य नासिक्यं वर्णम् किम् अस्ति?

(क) ण्                    (ख) ञ                    (ग) ड़

ख) ’शिव’ इति पदे ’श’ वर्णस्य उच्चारणस्थानम् किम्?

(क) तालुः                (ख) मूर्धा                 (ग) दन्ताः

 

प्र.4. अधोलिखितेषु वाक्येषु रेखांकितपदानि आधृत्य सन्धिं विच्छेदं वा कुरुत-

क) उत्तिष्ठ पुत्र! सूर्योदयः अभवत्।

ख) अहम् प्रतिदिनम् शिव + आलयम् गच्छामि ।

ग) अद्य + एव मरणमस्तु युगान्तरे वा ।

 

प्र.5. निर्देशानुसारं धातुरूपाणि लिखत-

क) ’नम्’ धातोः लट्लकारे प्रथमपुरुषस्य एकवचने किम् रूपं भवति?

ख) ’गम्’ धातोः लृट्लकारे मध्यमपुरुषस्य द्विवचने किम् रुपं भवति?

ग) ’खाद्’ धातोः लड.्लकारे प्रथमपुरुषस्य बहुवचने किम् रुपं भवति?

 

---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ