Ad Code

ALERT:

6/recent/ticker-posts

WS-1 (X)

  WORKSHEET-1


प्र.1. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -

वानराः सेतुनिर्माणम् अकुर्वन् । अधुना यदा सेतुबन्धः अभवत् तदा रामस्य तस्य भ्रातुः च नेतृत्वे

सर्वेषाम् वानराणाम् समस्तसेना लंकाम् प्राविशत्। लंकायाः अधिपतिः राक्षसः रावणः निजपुत्रैः बन्धुभिः च सह युद्धाय तत्परः अभवत्। तदा बहुमासं यावत् भयंकरम् युद्धम् अभवत्। अन्ते सः राक्षसराजः रावणः पराजितः। यदा सः मृतः तदा तस्य स्वर्णनिर्मिता अखिला राजधानी वशम् अधिगता।

 

I) एकपदेन उत्तरत-

क) सेतुनिर्माणम् के अकुर्वन्?

ख) वानराणाम् सेना कुत्र प्राविशत्?

ग) लंकायाः अधिपतिः राक्षसः कः आसीत्?

घ) कः मृतः अभवत्?

 

II) पूर्णवाक्येन उत्तरत-

क) यदा रावणः मृतः तदा किम् अभवत्?

ख) रावणः कैः सह युद्धाय तत्परः अभवत्?

 

III) निर्देशानुसारम् उत्तरत-

 ‘बन्धुभिः’ इति पदे का विभक्तिः किं च वचनम्?

(पंचमी, द्विवचनम्/तृतीया, बहुवचनम्)

 

प्र.2. अधोलिखितानां रेखांकितपदानां सन्धिं विच्छेदं वा कृत्वा लिखत-

क) हिमालयः भारतस्य उत्तरस्याम् स्थितः अस्ति।

ख) अहम् अपि वधू + उत्सवे गास्यामि ।

ग) सः गायिका दिल्लीनगरे वसति ।

 

प्र.3. अधोलिखितानां रेखांकित पदानां समासं विग्रहं वा प्रदत्त विकल्पेभ्यः चित्वा लिखत-

क) प्रतिदिनम् अध्ययनम् करणीयम्।

(अ) दिने दिने इति              (ब) दिनस्य प्रति                 (स) दिनम् इति

 

ख) देशसेवा अस्माकं परमं कर्तव्यम् अस्ति।

(अ) देशेषु सेवा                   (ब) देशस्य सेवा                  (स) देशं सेवा

 

ग) गंगायाः समीपम् एकः तडागः अस्ति।

(अ) गंगस्यसमीपम्              (ब) गंगसमीपे                    (स) उपगंगम्

 

प्र.7 प्रकृति प्रत्ययौ विभागं कृत्वा लिखत-

क) मया पत्रं पठनीयम्

ख) कक्षायाम् कोलाहलः न कर्तव्यः

ग) मूषकम् दृष्ट्वा बिडालः आगच्छत्।


---------- इति ----------  



एक टिप्पणी भेजें

0 टिप्पणियाँ