Ad Code

ALERT:

6/recent/ticker-posts

VIII-11 (Ans)

                                                                 ✍सावित्री बाई फुले

-प्रश्नोत्तराणि-



1. एकपदेन उत्तरत
(एक पद में उत्तर दो)

(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
उत्तराणि:
सामाजिककुरीतीनाम्

(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तराणि:
उच्चवर्गीयाः

(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तराणि:
शिक्षिका

(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
उत्तराणि:
नापितैः

(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तराणि:
बालिकानाम्।

2. पूर्णवाक्येन उत्तरत
(पूर्ण वाक्य में उत्तर दो)

(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तराणि:
अनेकानि कष्टानि सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
उत्तराणि:
सावित्रीबाईमहोदयायाः पिता खंडोजी माता च लक्ष्मीबाई आस्ताम्।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तराणि:
विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्त्रीशिक्षायाः महत्त्वं ज्ञात्वा उत्साह प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तराणि:
जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती चाऽकथयत् यथेष्टं जलं नयत।

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तराणि:
‘महिला सेवा मण्डल’, ‘शिशुहत्याप्रतिबन्धकगृह’ इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्।

(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तराणि:
सत्यशोधकमण्डलस्य उद्देश्यं आसीत् पीडितानां अधिकार प्रति जागरणम्।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तराणि:
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी आस्ताम्-‘काव्यफुले’, ‘सुबोधरत्नाकर’।

3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माण कुरुत
(रेखांकित पद के लिए प्रश्न निर्माण कीजिए)

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
उत्तराणि:
सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
उत्तराणि:
सा कस्य प्रथमा महिला शिक्षिका आसीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
उत्तराणि:
सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः। ।
उत्तराणि:
तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?

(ङ) साहित्यरचनया अपि सावित्री महीयते।
उत्तराणि:
साहित्यरचनया अपि का महीयते?

4. यथानिर्देशम् उत्तरत
(निर्देशानुसार उत्तर दीजिए)

(क) इदं चित्रं पाठशालायाः वर्तते – अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तराणि:
चित्रम्

(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तराणि:
स्वकीयम्

(ग) अपि यूयमिमा महिलां जानीथ – अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
उत्तराणि:
पाठकेभ्यः

(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तराणि:
सावित्रीबाई

(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’
इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तराणि:
निम्नजातीयाः।

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(निम्नलिखित पदों के आधार पर वाक्यों की रचना करो)

स्वकीयम् = …………………………
सविनोदम् = …………………………
सक्रिया = …………………………
प्रदेशस्य = …………………………
मुखरम् = …………………………
सर्वथा = …………………………
उत्तराणि:
स्वकीयं कार्यं स्वयं कुरु।
देवः सविनोदम् कार्याणि करोति।
लक्ष्मीबाई स्वतन्त्रता युद्धे सक्रिया आसीत्।
हरियाणाप्रदेशस्य भूमिः उर्वरा अस्ति।
महर्षिः दयानन्दः कुरीतीनां मुखरं विरोधम् अकरोत् ।
दयानन्दः सरस्वती सर्वथा वेदसमर्थकः आसीत् ।

6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(निम्नलिखित पदों के आधार पर वाक्य बनाइए)।

(क) उपरि – ………., …………, …………., ……………..
(ख) आदानम् – ………., …………, …………., ……………..
(ग) अपरः – ………., …………, …………., ……………..
(घ) कन्यानाम् – ………., …………, …………., ……………..
(ङ) सहभागिता – ………., …………, …………., ……………..
(च) नापितैः- ………., …………, …………., ……………..
उत्तराणि:
NCERT Solutions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले 1

7. (आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत
(उदाहरणों के अनुसार लकार परिवर्तन करो)

यथा- सा शिक्षिका अस्ति। (लङ्लकारः) – सा शिक्षिका आसीत्।

(क) सा अध्यापने संलग्ना भवति। (लट्लकारः)
उत्तराणि:
सा अध्यापने संलग्ना भविष्यति ।

(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
उत्तराणि:
सः त्रयोदशवर्षकल्पः आसीत्।

(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
उत्तराणि:
महिलाः तडागात् जलम् नयन्तु ।

(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
उत्तराणि:
वयं प्रतिदिनं पाठं पठेम।

(ङ) यूयं किं विद्यालयं गच्छथ? (लुट्लकारः)
उत्तराणि:
यूयं किं विद्यालयम् गमिष्यथ?

(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तराणि:
ते बालकाः विद्यालयात् गृहम् अगच्छन्।

एक टिप्पणी भेजें

0 टिप्पणियाँ