चतुर्थः पाठः
कल्पतरूः
प्रश्न
1. एकपदेन
उत्तरं लिखत –
(क)
जीमूतवाहनः कस्य पुत्रः अस्ति?
उत्तरम्-
जीमूतवाहनस्य
(ख) संसारेऽस्मिन् कः अनश्वरः भवति?
उत्तरम्-
परोपकारः
(ग)
जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
उत्तरम्-
कल्पपादपम्
(घ)
जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
उत्तरम्-
यशः
(ङ)
कल्पतरुः भुवि कानि अवर्ष?
उत्तरम्-
वसूनि
प्रश्न
2. अधोलिखितानां
प्रश्नानाम् उत्तर: संस्कृतभाषया लिखित –
(क)
कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
उत्तरम्-
कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म।
(ख)
जीमूतवाहनः कीदृशः आसीत्?
उत्तरम्-
जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।
(ग)
कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
उत्तरम्-
कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम्
अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु
केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः अभीष्टं
साधयामि” इति।
(घ)
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
उत्तरम्-
हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः
कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि
अस्मान् बाधितुं न शक्नुयात्।”
(ङ)
जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
उत्तरम्-
जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः
कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव”
इति।
प्रश्न
3. अधोलिखितवाक्येषु
स्थूलपदानि कस्मै प्रयुक्तानि?
(क)
तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
उत्तरम्-
हिमवते (हिमालयाय)
(ख)
राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
उत्तरम्-
राजपुत्राय (जीमूतवाहनाय)
(ग)
अयं तव सदा पूज्यः।
उत्तरम्-
कल्पतरवे
(घ)
तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
उत्तरम्-
पित्रे (जीमूतकेतवे राज्ञे)
प्रश्न
4. अधोलिखितानां
पदानां पर्यायपदं पाठात् चित्वा लिखत –
उत्तरम्-
(क) पर्वतः – नगेन्द्रः
(ख) भूपतिः – राजा
(ग) इन्द्रः –
शक्रः
(घ) धनम् – अर्थः
(ङ) इच्छितम् – अभीष्टम्/अर्थितः
(च) समीपम् – अन्तिकम्
(छ) धरित्रीम् – पृथ्वीम्
(ज) कल्याणम् – स्वस्ति/सुखम्
(झ) वाणी – वाक्
(ञ) वृक्षः – तरुः
प्रश्न
5. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित
योजयत –
उत्तरम्-
‘क’
स्तम्भः – ‘ख’ स्तम्भः
कुलक्रमागत: – कल्पतरु:
दानवीर: – जीमूतवाहनः
हितैषिभिः – मन्त्रिभिः
वीचिवच्चञ्चलम् – धनम्
अनश्वरः – परोपकारः
प्रश्न
6. स्थूलपदान्यधिकृत्य
प्रश्ननिर्माणं कुरुत –
(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
उत्तरम्-
कस्य कृपया सः पुत्रम् अप्राप्नोत्?
(ख) सः कल्पतरवे न्यवेदयत्।
उत्तरम्- सः कस्मै न्यवेदयत्?
(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
उत्तरम्-
कया कोऽपि दरिद्रः नातिष्ठत्?
(घ)
कल्पतरुः पृथिव्यां धनानि
अवर्षत्।
उत्तरम्-
कल्पतरुः कस्याम् धनानि अवर्षत्?
(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
उत्तरम्-
कया जीमूतवाहनस्य यशः प्रासरत्?
प्रश्न
7. (अ) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति।
इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु)
चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
उत्तरम्-
(क) राज्ञे।
(ख) प्रजाभ्यः प्रजाये।
(ग) छात्राय/छात्रेभ्यः।
(घ) सर्वजनेभ्यः ।
प्रश्न
7. (आ) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
उत्तरम्-
(क) गृहस्य
(ख) पितुः
(ग) जीमूतवाहनस्य
(घ) कस्य
---------- इति
----------
0 टिप्पणियाँ