Ad Code

ALERT:

6/recent/ticker-posts

IX-3 (Ans)

तृतीयः पाठः

गोदोहनम्



 प्रश्न 1. एकपदेन उत्तरं लिखत –

(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
उत्तरम्- काशीविश्वनाथमन्दिरम्

(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
उत्तरम्- त्रिशत/त्रिशतम्

(ग) कुम्भकारः घटान् किमर्थ रचयति?
उत्तरम्- जीविकाहेतोः

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
उत्तरम्- मोदकानि

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तरम्- चन्दनः

 

प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत –

(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
उत्तरम्- मल्लिका चन्दनश्च मासपर्यन्तं धेनु घासादिकं गडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलक धारयतः रात्रौ नीराजनेनापि तोषयतः।

(ख) कालः कस्य रसं पिबति?
उत्तरम्- कालः क्षिप्रमक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
उत्तरम्- पुत्रिके। नाह पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।

(घ) मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?
उत्तरम्- मल्लिकया दुग्धहीनताम् दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
उत्तरम्- मासपर्यन्तं धेनोः अदोहनस्य ग्रामप्रमुखस्य गृहे त्रिशत सेटकमितं दुग्धप्रदानस्य लोभः कारणमासीत्।

 

प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
उत्तरम्- मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?

(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
उत्तरम्- चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
उत्तरम्- कानि पूजानिमित्तानि रचितानि आसन्?

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
उत्तरम्- मल्लिका स्वपति कीदृशम् मन्यते?

(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तरम्- का पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?

प्रश्न 4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।

यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति ……….. विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं ……….. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते …………. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ……….. भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ……….. । एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ………… आसीत्।

उत्तरम्-
धर्मयात्रायाः
गृहव्यवस्थाये
मङ्गलकामनाम्
कल्याणकारिणः
उत्पादयेत्
समर्थकः

प्रश्न 5. घटनाक्रमानुसारं लिखत –

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।


उत्तरम्-
(क) मल्लिका पूजार्थं मोदकानि रचयति।
(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिर प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) चन्दनः उत्सवसमये अधिक प्राप्तुं मासपर्यन्तं दोहन न करोति।
(ङ) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृह प्रत्यागच्छति।
(च) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

प्रश्न 6. अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

उदाहरणम् – कः/का – कं/काम् स्वामिन् ।
प्रत्यागता अहम्। – आस्वादय प्रसादम्। – मल्लिका – चन्दनं प्रति

उत्तरम्-
(क) उमा,                         चन्दनं प्रति
(ख) चन्दनः,           उमा प्रति
(ग) चन्दनः,                     देवेशं प्रति
(घ) देवेशः,                       मल्लिका प्रति
(ङ) चन्दनः,                     मल्लिका प्रति।

प्रश्न 7. पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

उत्तरम्-
(क) शिवाः              +       ते
(ख) मनः                +       हरः
(ग) सप्ताह               +       अन्ते
(घ) न                    +       इच्छामि
(ङ) अति                +       उत्तमः

 

प्रश्न 7. (अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
उत्तरम्-
(क) कृ                   +       अनीयर्
(ख) विक्रीय
(ग) पठ्                  +       क्त
(घ) ताडयित्वा
(छ) दुह                  +       तुमुन्

 

 

---------- इति ----------


एक टिप्पणी भेजें

0 टिप्पणियाँ