Ad Code

ALERT:

6/recent/ticker-posts

VIII-14 (Ans)

                                                                     ✍आर्यभटः

-प्रश्नोत्तराणि-



1. एकपदेन उत्तरत
(एकपद में उत्तर दो)

(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तराणि:
पूर्वस्याम्।

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तराणि:
पाटलिपुत्रे।

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तराणि:
आर्यभटः।

(घ) आर्यभटेन कः ग्रन्थः रचित?
उत्तराणि:
आर्यभटीयम्।

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तराणि:
आर्यभटः।

2. पूर्णवाक्येन उत्तरत –
(पूर्ण वाक्य में उत्तर दो)

(क) कः सुस्थापितः सिद्धान्तः?
उत्तराणि:
सूर्योऽचलः पृथिवी च चलेति सुस्थापितः सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?
उत्तराणि:
यदा पृथिव्याः छायया चन्द्रस्य प्रकाशः अवरुध्यते, तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तराणि:
चन्द्रस्य छायया सूर्यग्रहणं भवति।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तराणि:
नूतनविचाराणां स्थापनया आर्यभटस्य विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तराणि:
आर्यभटस्य योगदानम् अवलोक्य प्रथमोपग्रहस्य नाम आर्यभटः इति कृतम्।

3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तराणि:
सूर्यः कस्यां दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तराणि:
पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?

(ग) आर्यभटस्य योगदानं गणितज्योतिषः संबद्धः वर्तते।
उत्तराणि:
आर्यभटस्य योगदान केन संबद्धः वर्तते?

(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुमवन्ति।
उत्तराणि:
समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुमवन्ति।

(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
उत्तराणि:
कयोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत –
(मंजूषा से पदों को लेकर रिक्तस्थानों को पूरा करो)

मञ्जूषा- [ नौकाम्, पृथिवी, तदा, चला, अस्तं]

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च ………… गच्छति।
उत्तराणि:
सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च अस्तं गच्छति।

(ख) सूर्यः अचलः पृथिवी च ………..
उत्तराणि:
सूर्यः अचलः पृथिवी च चला।

(ग) ……….. स्वकीये अक्षे घूर्णति।
उत्तराणि:
पृथिवी स्वकीये अक्षे घूर्णति।

(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ……….. चन्द्रग्रहणं भवति।
उत्तराणि:
यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।

(ङ) नौकायाम् उपविष्टः मानवः ………….. स्थिरामनुभवति।
उत्तराणि:
नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति ।

5. सन्धिविच्छेदं कुरुत
(सन्धिविच्छेद करो)

ग्रन्थोऽयम् = ……………… + ………………..
सूर्याचलः = ……………… + ………………..
तथैव = ……………… + ………………..
कालातिगामिनी = ……………… + ………………..
प्रथमोपग्रहस्य = ……………… + ………………..
उत्तराणि:
ग्रन्थोऽयम् = ग्रन्थः + अयम्।
सूर्याचलः = सूर्य + अचलः।
तथैव = तथा + एव।
कालातिगामिनी = काल + अतिगामिनी।
प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य।

6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत –
(निम्नलिखित पदों के विपरीतार्थक पद लिखो)

उदयः – ………………..
अचलः – ………………..
अन्धकारः – ………………..
स्थिरः – ………………..
समादरः – ………………..
आकाशस्य – ………………..
उत्तराणि:
उदयः – अस्तः ।
अचलः – चलः।
अन्धकारः – प्रकाशः।
स्थिरः – अस्थिरः।
समादरः – अनादरः।
आकाशस्य – धरायाः ।

6. (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –
(निम्न पदों के समान अर्थ वाले पाठ में चुनकर लिखिए)

शब्दाः – अर्थाः
संसारे – ………………..
इदानीम् – ………………..
वसुन्धरा – ………………..
समीपम् – ………………..
गणनम् – ………………..
राक्षसौ – ………………..
उत्तराणि:
शब्दाः – अर्थाः
संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – राहुकेतुनामानौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –
(निम्नलिखित पदों के आधार पर वाक्यों की रचना करो)

साम्प्रतम् – …………………
निकषा – …………………
परितः – …………………
उपविष्टः – …………………
कर्मभूमिः – …………………
वैज्ञानिकः – …………………
उत्तराणि:
साम्प्रतम् विज्ञानस्य युगम् अस्ति।
ग्रामं निकषा तडागः अस्ति।
नगरं परितः जलं वर्तते।
वृक्षे एकः काकः उपविष्टः अस्ति।
श्रीकृष्णस्य कर्मभूमिः गोकुलम् आसीत् ।
आर्यभटः वैज्ञानिकः आसीत्।

एक टिप्पणी भेजें

0 टिप्पणियाँ