💢 अपठित गद्यांशम् 💧
अपठितं गद्यांशम् पठित्वा प्रश्नानाम् उत्तराणि लिखत-
स्वच्छं भारतं प्रायः
अधिकांश भारतीयानां स्वप्नः अस्ति। परन्तु, केवलं स्वप्न मात्रेण
स्वच्छता न भवति। वयं सर्वे मिलित्वा एव स्वच्छतायाः विषये प्रयासं कुर्याम। वयं
पश्यामः यत् जनाः मार्गेषु सार्वजनिक स्थानेषु इतस्ततः अवकरं क्षिपन्ति। एतत् न
उचितम् अतः एवं न करणीयम्। भारतीयसर्वकारः अपि एतत् कार्यं कर्तुं प्रयत्नशीला
अस्ति परन्तु यदि वयं सर्वे एव जागरुकाः भविष्यामः तदा अयं स्वप्नः अवश्यमेव
पूर्णः भविष्यति। एवं प्रदूषणस्य समस्यायाः अपि समाधानं भविष्यति।
I.
एकपदेन उत्तरत
(½ x4 = 2)
(i) स्वच्छं भारतं केषां स्वप्नः
अस्ति?
उत्तरम्- भारतीयानां
(ii) केवलं स्वप्नमात्रेण का न भवति?
उत्तरम्- स्वच्छता
(iii) वयं सर्वे एव कीदृशाः भविष्यामः?
उत्तरम्- जागरूकाः
(iv) जनाः मार्गेषु किं क्षिपन्ति?
उत्तरम्- अवकरं
II.
पूर्णवाक्येन उत्तरत– (1x2= 2)
(i)
अयं स्वप्नः कदा पूर्णः भविष्यति?
उत्तरम्- यदा वयं सर्वे एव जागरुकाः भविष्यामः तदा अयं
स्वप्नः अवश्यमेव पूर्णः भविष्यति।
(ii) कस्य
समस्यायाः अपि समाधानं भविष्यति?
उत्तरम्- प्रदूषणस्य
समस्यायाः अपि समाधानं भविष्यति।
III. अपठित
गद्यांशं उचितं शीर्षकं लिखत। (2)
उत्तरम्- स्वच्छभारतम् (छात्राः स्वविवेकानुसारं
लेखिष्यन्ति)
IV. निर्देशानुसारं उत्तरत- (4)
(i) सर्वकारः
इति पदस्य किं विशेषणपदम्?
(क)
प्रायः (ख) भारतीयः (ग) स्वप्नः
उत्तरम्- (ख) भारतीयः
(ii) एतत् न
उचितम्’ अत्र किम् अव्ययपदम्?
(क)
एतत् (ख) उचितम् (ग) न
उत्तरम्- (ग) न
(iii) ‘क्षिपन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क)
अवकरम् (ख) जनाः (ग) इतस्ततः
उत्तरम्- (ख) जनाः
(iv) ‘अपूर्णः’ इति पदस्य विलोमपदं किं प्रयुक्तम् ?
(क)
अवश्यम् (ख) पूर्णः (ग) स्वप्नः
उत्तरम्- (ख) पूर्णः
---------- इति ----------
0 टिप्पणियाँ