💨 अपठित गद्यांशम् 😟
अपठितं गद्यांशम् पठित्वा प्रश्नानाम् उत्तराणि लिखत-
एष: मम विद्यालय: अस्ति। मम
विद्यालय: सुन्दर: विशाल: च अस्ति। अस्माकं विद्यालये अनेकानि चित्राणि सन्ति। चित्राणि
सुन्दराणि सन्ति। विद्यालये मम अनेकानि मित्राणि सन्ति। वयं मिलित्वा सुन्दराणि
चित्राणि पश्याम:। वयं मिलित्वा गीतानि अपि गायाम:। वयं मिलित्वा क्रीडांगने
क्रीडाम: धावाम: च। अस्माकम् अध्यापक: अध्यापिका: च स्नेहेन पाठयन्ति। यदा अवकाश:
भवति वयं मिलित्वा एव गृहम् गच्छाम:। गृहम्
गत्वा गृहकार्यं कुर्म: क्रीडाम: च। अनन्तरम् वयं मिलित्वा उद्याने गच्छाम:।
I.
एकपदेन उत्तरत
(½ x4 = 2)
(i) वयं मिलित्वा कानि पश्याम:?
उत्तरम्- चित्राणि
(ii) कुत्र अनेकानि चित्राणि सन्ति?
उत्तरम्- विद्यालये
(iii) क: स्नेहेन पाठयति?
उत्तरम्- अध्यापकः/अध्यापिकाः
(iv) विद्यालय: कीदृशम् अस्ति?
उत्तरम्- विशालः
II.
पूर्णवाक्येन उत्तरत– (1x2= 2)
(i) वयं
कदा गृहं आगच्छामः?
उत्तरम्- यदा अवकाश: भवति वयं मिलित्वा एव गृहम् गच्छाम:।
(ii) वयं
कुत्र धावामः?
उत्तरम्- वयं
क्रीडाङ्गणे धावामः।
III. अपठित
गद्यांशं उचितं शीर्षकं लिखत। (2)
उत्तरम्- मम विद्यालयः (छात्राः स्वविवेकानुसारं
लेखिष्यन्ति)
IV. निर्देशानुसारं उत्तरत (4)
(i) क्रोधेन
–इति पदस्य विलोम पदं किम्
(क) अनेकानि
(ख) स्नेहेन (ग) एव
उत्तरम्- (ख) स्नेहेन
(ii) "वयं
गीतानि अपि गायाम:’ अत्र क्रिया पदं किम्
(क)
वयम् (ख) अपि (ग) गायाम:
उत्तरम्- (ग)
गायामः
(iii) वयं मिलित्वा सुन्दराणि चित्राणि
पश्याम:।अस्मिन् वाक्ये विशेषण पदं चिनुत-
(क)
सुन्दराणि (ख) चित्राणि (ग) अनेकानि
उत्तरम्- (क) सुन्दराणि
(iv) अधोलिखितेषु अव्यय पदं चिनुत-
(क)
मम (ख) अपि (ग) वयं
उत्तरम्- (ख)
अपि
---------- इति ----------
0 टिप्पणियाँ